|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.296. अध्यायः 296
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति श्रेयःसाधनप्रतिपादकपराशरगीतानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-296-0x(6441)(77340)
अतः परं महाबाहो यच्छ्रेयस्तद्ब्रवीहि मे।
न तृप्याम्यमृतस्येव वचसस्ते पितामह॥ 12-296-1(77341)
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद॥ 12-296-2(77342)
भीष्म उवाच। 12-296-3x(6442)
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः।
पराशरं महात्मानं पप्रच्छ जनको नृपः॥ 12-296-3(77343)
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च।
यद्भवेत्प्रतिपत्त्व्यं तद्भवान्प्रब्रवीतु मे॥ 12-296-4(77344)
ततः स तपसा युक्तः सर्वधर्मविधानवित्।
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत्॥ 12-296-5(77345)
पराशर उवाच। 12-296-6x(6443)
धर्म एव कृतः श्रेयानिह लोके परत्र च।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः॥ 12-296-6(77346)
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते।
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम॥ 12-296-7(77347)
तस्मिन्त्राश्रमिणः सन्तः स्वकर्माणीह कुर्वते॥ 12-296-8(77348)
चतुर्विधा हि लोकेऽस्मिन्यात्रा तात विधीयते।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते॥ 12-296-9(77349)
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः।
दशार्धप्रविभक्तानां भूतानां विविधा गतिः॥ 12-296-10(77350)
सौवर्णं राजतं चापि यथा भाण्डं निषिच्यते।
तथा निपिच्यते जन्तुः पूर्वकर्मवशानुगः॥ 12-296-11(77351)
नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते।
सुकृतैर्विन्दते सौख्यं प्राप्य देहक्षयं नरः॥ 12-296-12(77352)
दैवं तात न पश्यामि नास्ति दैवस्य साधनम्।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः॥ 12-296-13(77353)
प्रेत्य यान्त्यकृतं कर्म न स्मरन्ति सदा जनाः।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्॥ 12-296-14(77354)
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम्॥ 12-296-15(77355)
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते॥ 12-296-16(77356)
निरन्तरं च मिश्रं च लभते कर्म पार्थिव।
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते॥ 12-296-17(77357)
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते॥ 12-296-18(77358)
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते।
सुकृतक्षयाच्च दुष्कृतं तद्विद्धि मनुजाधिप॥ 12-296-19(77359)
दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता।
ह्रीरहिंसाऽव्यसनिता दाक्ष्यं चेति सुखावहाः॥ 12-296-20(77360)
दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत्।
नित्यं मनः समाधाने प्रयतेत विचक्षणः॥ 12-296-21(77361)
नायं परस्य सुकृतं दुष्कृतं चापि सेवते।
करोति यादृशं कर्म तादृशं प्रतिपद्यते॥ 12-296-22(77362)
सुखदुःखे समाधाय पुमानन्येन गच्छति।
अन्येनैव जनः सर्वः संगतो यश्च पार्थिवः॥ 12-296-23(77363)
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः।
यो ह्यसूयुस्तथा युक्तः सोऽवहासं नियच्छति॥ 12-296-24(77364)
भीरू राजन्यो ब्राह्मणः सर्वभक्ष्यो
वैश्योऽनीहावान्हीनवर्णोऽलसश्च।
विद्वांश्राशीलो वृत्तहीनः कुलीनः
सत्याद्विभ्रष्टो ब्राह्मणस्त्री च तुष्टा॥ 12-296-25(77365)
रागी युक्तः पचमानोऽऽत्महेतो
र्मूर्खो वक्ता नृपहीनं च राष्ट्रम्।
एते सर्वे शोच्यतां यान्ति राज
न्यश्रायुक्तः स्नेहहीनः प्रजासु॥ ॥ 12-296-26(77366)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षण्णवत्यधिकद्विशततमोऽध्यायः॥ 296॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-296-18 करस्थमिव तिष्ठतीति थ. पाठः॥ 12-296-26 रागी मुक्त इति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|